|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.124. अध्यायः 124
Mahabharata - Vana Parva - Chapter Topics
कदाचन च्यवनाश्रममुपागताभ्यामश्विभ्यां भार्यात्वाय सुकन्याप्रति प्रार्थनम् ॥ 1 ॥ तदकामयमानां तां प्रत्यश्विभ्यां स्वप्रसादाच्च्यवने रूपयौवनसंपन्ने सति तुल्यरूपेषु त्रिषु कस्यचिद्वरणचोदना ॥ 2 ॥ भर्त्राज्ञया तया तदङ्गीकारे च्यवनेन सहाश्विभ्यां सरसोऽन्तर्जले निमज्जनम् ॥ 3 ॥ सुकन्यया निमज्ज्योत्थितेषु सरूपेषु त्रिषु तेषु स्वपातिव्रत्यमहिन्ना च्यवनस्यैव वरणम् ॥ 4 ॥ ततस्तुष्टेन च्यवनेनाश्विनोः सोमरसदापनप्रतिज्ञानम् ॥ 5 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-124-0x(2106)(20714)
कस्य चित्त्वथ कालस्य त्रिदशावश्विनौ नृप।
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥ 3-124-1(20715)
तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव।
ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् ॥ 3-124-2(20716)
कस्य त्वमसि वामोरु वनेऽस्मिन्किं करोषि च।
इच्छाव भद्रे ज्ञातुं त्वां तत्वमाख्याहि शोभने ॥ 3-124-3(20717)
ततः सुकन्या संवीता तावुवाच सुरोत्तमौ।
शर्यातितनयां वित्तं भार्यां मां च्यवनस्य च ॥ 3-124-4(20718)
`नाम्ना चाहं सुकन्येति नृलोकेऽस्मिन्प्रतिष्ठिता।
साऽहंसर्वात्मना नित्यं भर्तारमनुवर्तिनी' ॥ 3-124-5(20719)
अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु।
कथं त्वमसि कल्याणि पित्रा दत्ताऽऽगता वने ॥ 3-124-6(20720)
भ्राजसेऽस्मिन्वने भीरु विद्युत्सौदामनी यथा।
न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि ॥ 3-124-7(20721)
अनाभरणसंपन्ना परमाम्बरवर्जिता।
शोभयस्यधिकं भद्रे वनमप्यनलंकृता ॥ 3-124-8(20722)
सर्वाभरणसंपनना परमाम्वरधारिणी।
शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी ॥ 3-124-9(20723)
कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम्।
त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् ॥ 3-124-10(20724)
असमर्थं परित्राणे पोषणे तु शुचिस्मिते।
सा त्वं च्यवनमुत्सृज्यवरयस्वैकमावयोः ॥ 3-124-11(20725)
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः।
एवमुक्ता सुकन्याऽपि सुरौ ताविदमब्रवीत् ॥ 3-124-12(20726)
रताऽहं च्यवने पत्यौ मैवं मां पर्यशङ्कतम्।
तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ ॥ 3-124-13(20727)
युवानं रूपसंपन्नं करिष्यावः पतिं तव।
ततस्तस्यावयोश्चैव वृणीष्वान्यतमं पतिम्।
एतेन समयेनैनमामन्त्रय पतिं शुभे ॥ 3-124-14(20728)
सा तयोर्वचनाद्राजन्नुपसंगम्य भार्गवम्।
उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ॥ 3-124-15(20729)
तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति।
`सा भर्त्रा समनुज्ञाता क्रियतामित्यथाब्रवीत् ॥ 3-124-16(20730)
श्रुत्वा तदश्विनौ वाक्यं तस्यास्तत्क्रियतामिति'।
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥ 3-124-17(20731)
ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह।
अश्विनावपि तद्राजन्सरः प्राविशतां तदा ॥ 3-124-18(20732)
ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्त्रयः।
दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः।
तुल्यवेषधराश्चैव मनसः प्रीतिवर्धनाः ॥ 3-124-19(20733)
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे।
अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ॥ 3-124-20(20734)
`त्वमश्विनोरन्यतरं च्यवनं वा यशस्विनि'।
यत्र वाऽप्यभिकामाऽसि तं वृणीष्व सुशोभने ॥ 3-124-21(20735)
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान्।
निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ॥ 3-124-22(20736)
लब्ध्वा तु च्यवनो भार्यांवयोरूपं च वाञ्छितम्।
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥ 3-124-23(20737)
यथाऽहं रूपसंपन्नो वयसा च समन्वितः।
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ॥ 3-124-24(20738)
तस्माद्युवां करिष्यामि प्रीत्याऽहं सोमपीथिनौ।
मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् ॥ 3-124-25(20739)
तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः।
च्यवनश्च सुकन्या च सुराविव विजह्रतुः ॥ 3-124-26(20740)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 124 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-124-1 विवृतामनाच्छादीताम् ॥ 3-124-4 ततः सुकन्या सव्रीडेति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|